|
|
 |
 |
|
|
८ कर्णपर्व.jpg)
॥ श्रीः ॥
8.65. अध्यायः 065
Mahabharata - Karna Parva - Chapter Topics
सङ्कुलयुद्धम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text
सञ्जय उवाच। 8-65-0x(4990)(58181)
ततः श्वेताश्वसंयुक्ते नारायणसमाहिते।
तिष्ठन्रथवरे श्रीमानर्जुनः समपद्यत॥ 8-65-1(58182)
तद्बलं नृपतिश्रेष्ठ तावकं विजयो रणे।
व्यक्षोभयदुदीर्णाश्वं महोदधिमिवानिलः॥ 8-65-2(58183)
दुर्योधनस्तव सुतः प्रमत्ते श्वेतवाहने।
अभ्येत्य सहसा क्रुद्धः सैन्यार्धेनाभिसंवृतः॥ 8-65-3(58184)
पर्यवारयदायान्तं युधिष्ठिरममर्षणम्।
क्षुरप्राणां त्रिसप्तत्या ततोऽविध्यत पाण्डवम्॥ 8-65-4(58185)
अक्रुध्यत भृशं तत्र कुन्तीपुत्रो युधिष्ठिरः।
स भल्लांस्त्रिंशतस्तूर्णं तव पुत्रे न्यवेशयत्॥ 8-65-5(58186)
ततो धावन्त कौरव्या जिघृक्षन्तो युधिष्ठिरम्॥ 8-65-6(58187)
दुष्टभावान्पराञ्ज्ञात्वा समवेता महारथाः।
आजग्मुस्तं परीप्सन्तः कुन्तीपुत्रं युधिष्ठिरम्॥ 8-65-7(58188)
`सञ्जय उवाच। 8-65-8x(4991)
युधिष्ठिरश्चित्रसेनं शरवर्षैरवाकिरत्।
चित्रसेनस्तु कौन्तेयं सङ्क्रुद्धः समवारयत्॥ 8-65-8(58189)
मुहूर्ताद्विमुखीकृत्य चित्रसेनं स धर्मराट्।
तावकं सैन्यमभ्यघ्नत्समन्तान्निशितैः शरैः॥ 8-65-9(58190)
तावका हि माबाहो दुर्योधनपुरोगमाः।
युधिष्ठिरं जिघृक्षन्तः सर्वसैन्यं समाक्षिपन्॥ 8-65-10(58191)
दृष्टप्रभावांस्तान्मत्वा समवेतान्महारथान्।
आजग्मुः सम्परीप्सन्तः पाण्डवेयं युधिष्ठिरम्'॥ 8-65-11(58192)
नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः।
अक्षौहिण्या परिवृतास्तेऽभ्यधावन्युधिष्ठिरम्॥ 8-65-12(58193)
भीमसेनश्च नाराचैर्मृद्रंस्तव महारथान्।
अभ्यधावदभिप्रेप्सू राजानं शत्रुभिर्वृतम्॥ 8-65-13(58194)
तांस्तु सर्वान्महेष्वासान्कर्णो वैकर्तनो वृषा।
शरवर्षेण महता प्रत्यवारयदागतान्॥ 8-65-14(58195)
शरौघान्विसृजन्तस्ते प्रेयन्तश्च कुञ्जरान्।
न शेकुर्यत्नवन्तोऽपि राधेयं प्रतिवीक्षितुम्॥ 8-65-15(58196)
तांश्च सर्वान्महेष्वासान्सर्वशस्त्रविशारदान्।
महता शरवर्षेण राधेयः प्रत्यवारयत्॥ 8-65-16(58197)
दुर्योधनं च विंशत्या नाराचानां कृती बली।
अविध्यत्तूर्णमभ्येत्य सहदेवो महीपतिम्॥ 8-65-17(58198)
स विद्धः सहदेवेन रराज बलसन्निधौ।
प्रभिन्न इव मातङ्गो रुधिरेण परिप्लुतः॥ 8-65-18(58199)
दृष्ट्वा तव सुतं तत्र गाढविद्धं सुतेजनैः।
अभ्यधावद्दृढं क्रुद्धो राधेयो रथिनां वरः॥ 8-65-19(58200)
दुर्योधनं तथा दृष्ट्वा शीघ्रमस्त्रमुदीर्य सः।
अवधीत्पाण्डवानीकं पाञ्चालांश्चैव मारिष॥ 8-65-20(58201)
ततो यौधिष्ठिरं सैन्यं वध्यमानं महात्मना।
सहसा प्राद्रावद्राजन्मूतपुत्रशरार्दितम्॥ 8-65-21(58202)
विविधा विशिखास्तत्र सम्पतन्ति परस्परम्।
भल्लाः पुङ्खसमाश्लिष्टाः सूतपुत्रधनुश्च्युताः॥ 8-65-22(58203)
अन्तरिक्षे शरौघाणां पततां च परस्परम्।
सङ्घर्पेण महाराज पावकः समजायत॥ 8-65-23(58204)
तकतो दशदिशः कर्णः शलभैरिव यायिभिः।
अभ्यघ्नंस्तरसा राजञ्शरैः परशरीरगैः॥ 8-65-24(58205)
रक्तचन्दनसन्दिग्धौ मणिहेमविभूषितौ।
बाहू व्यत्यक्षिपत्कर्णः परमास्त्रं विदर्शयन्॥ 8-65-25(58206)
ततः सर्वा दिशो राजन्सायकैर्विप्रमोहयन्।
अपीडयद्भृशं कर्णो धर्मराजं युधिष्ठिरम्॥ 8-65-26(58207)
ततः क्रुद्धो महाराज धर्मपुत्रो युधिष्ठिरः।
निशितैरिषुभिः कर्णं पञ्चाशद्भिः समार्पयत्॥ 8-65-27(58208)
[बाणान्धकारमभवत्तद्युद्धं घोरदर्शनम्।
हाहाकारो महानासीत्तावकानां विशाम्पते॥ 8-65-28(58209)
वध्यमाने तदा सैन्ये धर्मपुत्रेण मारिष।
सायकैर्विविधैस्तीक्ष्णैः कङ्कपत्रैः शिलाशितैः।
भल्लैरनेकैर्विविधैः शक्त्यृष्टिमुसलैरपि॥ 8-65-29(58210)
यत्र यत्र स धर्मात्मा दुष्टां दृष्टिं व्यसर्जयत्।
तत्र तत्र व्यशीर्यन्त तावका भरतर्षभ॥ 8-65-30(58211)
कर्णोऽपि भृशसङ्कुद्रो धर्मराजं युधिष्ठिरम्।
नाराचैरर्धचन्द्रैश्च वत्सदन्तैश्च संयुगे॥ 8-65-31(58212)
अमर्षी क्रोधनश्चैव रोषप्रस्फुरिताननः।
सायकैरप्रमेयात्मा युधिष्ठिरमभिद्रवत्॥ 8-65-32(58213)
युधिष्ठिरश्चापि स तं स्वर्णपुङ्खैः शितैः शरैः॥] 8-65-33(58214)
प्रहसन्निव तं कर्णः कङ्कपत्रैः शिलाशितैः।
उरस्यविध्यद्राजानं कुन्तीपुत्रं युधिष्ठिरम्॥ 8-65-34(58215)
स पीडितो भृशं तेन धर्मराजो युधिष्ठिरः।
उपविश्य रथोपस्थे सूतं याहीत्यनोदयत्॥ 8-65-35(58216)
अक्रोशन्त ततः सर्वे धार्तराष्ट्राः सराजकाः।
गृह्णीध्वमिति राजानमभ्यधावन्त सर्वशः॥ 8-65-36(58217)
ततः शताः सप्तदश केकयानां प्रहारिणाम्।
पञ्चालैः सहिता राजन्धार्तराष्ट्रान्न्यवारयन्॥ 8-65-37(58218)
तस्मिन्सुतुमुले युद्धे वर्तमाने जनक्षये।
दुर्योधनश्च भीमश्च समेयातां महाबलौ॥ ॥ 8-65-38(58219)
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे पञ्चषष्टितमोऽध्यायः॥ 65 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|